श्री राहु कवचम् स्तोत्रम्
ध्यानम् प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ 1॥ । अथ राहु कवचम् । नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ॥ 2॥ नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ॥ 3॥ भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ । पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥ 4॥ कटिं मे विकटः पातु ऊरू मे सुरपूजितः । स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ॥ 5॥ गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः । सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ॥ 6॥ फलश्रुतिः राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् । प्राप्नोति कीर्तिमतुलां श्रियमृद्धि मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ 7॥ ॥ इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ॥