अथ शुक्रस्तोत्रम् अस्य श्रीशुक्रस्तोत्रमन्त्रस्य भारद्वाज ऋषिः I गायत्री छन्दः शुक्रोदेवता I शुक्र पीडापरिहारार्थं जपे विनियोगः II शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः I हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः II १ II नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः I उशना वेद वेदाङ्गपारगः कविरात्मवित् II २ II भार्गवः करुणा सिन्धुर्ज्ञानगम्यः सुतप्रदः I शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् II ३ II आयुर्धनं सुखं पुत्रं लक्ष्मीं वसतिमुत्तमाम् I विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च II ४ II II इति श्रीस्कन्दपूराणे शुक्रस्तोत्रं संपूर्णं II