श्री द्वादश ज्योतिर्लिङ्ग स्तोत्रम्
लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥
सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदेஉतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥
श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेஉपि सदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ 3 ॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तम् ॐकारमीशं शिवमेकमीडे ॥ 4 ॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 6 ॥
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥
याम्ये सदङ्गे नगरेஉतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥
सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हतपापबृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ 10 ॥
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥
इलापुरे रम्यविशालकेஉस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोஉतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥